||Devi Mahatmyam||

||Durga Sapta Sati||

||Chapter 2||

||om tat sat||

Select text in Devanagari Telugu Kannada Gujarati English

मध्यम चरितम्
महा लक्ष्मीध्यानम्

ओं ॥
अक्षस्रक्परशुं गदेषु कुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घट्टां सुराभाजनम्।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवाळ प्रभां
सेवेसैरिभमर्दिनी मिह महालक्ष्मीं सरोजस्थिताम्॥

द्वितीयाध्यायः ॥

ओं ऋषिरुवाच॥

देवासुर मभूद्युद्धं पूर्णमब्दशतं पुरा।
महिषेऽसुराणामधिपे देवानां च पुरन्दरे॥1||

तत्रासुरैर्महावीर्यैः देवसैन्यं पराजितम्।
जित्वा च सकलान् देवान् इन्द्रोऽभून्महिषासुर॥2||

ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्।
पुरस्कृत्य गता स्तत्र यत्रेश गरुडध्वजौ॥3||

यथावृत्तं तयोस्तद्वन् महिषासुर चेष्ठितम्।
त्रिदशाः कथयामासुः देवाभि भवविस्तरम्॥4||

सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च।
अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति॥5||

स्वर्गान् निराकृताः सर्वे तेन देवगणा भुवि।
विचरन्ति यथा मर्त्या महिषेण दुरात्मना॥6||

एतत् वः कथितं सर्वं अमरारिविचेष्टितं।
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम्॥7||

इत्थं निशम्य देवानां वचांसि मधुसूदनः।
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ॥8||

ततोऽति कोपपूर्णस्य चक्रिणो वदनात्ततः।
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च॥9||

अन्येषां चैव देवानां शक्रादीनां शरीरतः।
निर्गतं सु महत्तेजः तच्चैक्यं समगच्छत॥10||

अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम्॥11||

अतुलं तत्र तत्तेजः सर्वदेव शरीरजम्।
एकस्थं तदभून् नारी व्याप्तलोक त्रयं त्विषा॥12||

यदभूत् शाम्भवं तेजः तेनाजायत तन्मुखम्।
याम्येन चा भवन् केशा बाहवो विष्णु तेजसा॥13||

सौम्येन स्तनयोर्युग्मं मध्यं चैंद्रेण चाभवत्।
वारुणेण च जङ्घोरू नितम्भः तेजसा भुवः॥14||

ब्रह्मणः तेजसा पादौ तदंगळ्योऽर्क तेजसा।
वसूनां च करांगुळ्यः कौबेरेण च नासिकाः॥15||

तस्यास्तु दन्ताः सम्भूता प्राजापत्येन तेजसा।
नयनत्रितयं जज्ञे तथा पावकतेजसा॥16||

भ्रुवौ च सन्ध्ययोः तेजः श्रवणावनिलस्य च।
अन्येषां चैव देवानां सम्भवः तेजसां शिवा॥17||

ततः समस्त देवानां तेजो रासि समुद्भवाम्।
तां विलोक्य मुदं प्रापु रमरा महिषार्दिताः॥18||

शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्।
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः॥19||

शंखं च वरुणः शक्तिं ददौ तस्यै हुताशनः।
मारुतो दत्त वांश्चापं बाणपूर्णे तथेषुधी॥20||

वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः ।
ददौ तस्यै सहस्राक्षो घण्ठां ऐरावताद्गजात् ॥21||

कालदण्डाद्यमो दण्डं पाशं चाम्भुपतिर्दधौ।
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम्॥22||

समस्त रोम कूपेषु निजरश्मीन् दिवाकरः।
कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम्॥23||

क्षीरोदश्चामलं हारमजरे च तथाम्बरे।
चूडामणिं तथा दिव्यं कुण्डले कटकानि च॥24||

अर्थचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु।
नूपुरौ विमले तद्वत् ग्रेवेयकमुनुत्तमम् ॥25||

अज्ञुगुळीयकरत्नानि समस्तास्वंगुळीषु च।
विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम्॥26||

अस्त्राण्यनेकरूपाणि तदाऽभेद्यं च दंशनम्।
अम्लान पंकजां मालां शिरस्युरसि चापराम्॥27||

अददत् जलधिः तस्यै पंकजं चाति शोभनम्।
हिमवान् वाहनं सिंहं रत्नानि विविधानिच॥28||

ददावशून्यं सुरया पानपात्रं धनाधिपः।
शेषश्च सर्वनागेशो महामणि विभूषितम्॥29||

नागहारं ददौ तस्यै धत्ते यः पृथिवी मिमाम् ।
अन्यैरपि सुरैर्देवी भूषणै रायुधैस्तथा ॥ 30||

सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः।
तस्या नादेन घोरेण कृत्स्न मापूरितं नभः॥31||

अमायतातिमहता प्रतिशब्दो महानभूत्।
चुक्षुभुः सकलालोकाः समुद्राश्च चकम्पिरे॥32||

चचाल वसुधा चेलुः सकलाश्च महीधराः ।
जयेति देवाश्च मुदा तां ऊचुः सिंहवाहिनीम्॥33||

तुष्टुवुर्मुनियश्चैनां भक्तिनम्रात्ममूर्तयः।
दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः॥34||

सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ।
आः किमेदिति क्रोधादाभाष्य महिषासुरः॥35||

अभ्यधावत तं शब्दं अशेषैः असुरैर्वृतः।
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा॥36||

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्।
क्षोभिता शेषपाताळां धनुर्ज्यानिः स्वनेन ताम्॥37||

दिशोभुज सहस्रेण समन्ताद्वाप्य संस्थिताम्।
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम्॥38||

शस्त्रास्त्रैर्बहुधा मुक्तैरादीपित दिगन्तरम्।
महिषासुर सेनानीः चिक्षुराख्यो महासुरः॥39||

युयुधे चामरश्चान्यैः चतुरंग बलान्वितः।
रथानामयुतैः षड्भिः उदग्राख्यो महासुरः॥40||

अयुध्यतानां युतानां च सहस्रेण महाहनुः।
पंचाशद्भिश्च नियुतैः असिलोमा महासुरः॥41||

अयुतानां शतैः षड्भिर्भाष्कलो युयुधे रणे।
गजवाजि सहस्रौघैः अनैकैः परिवारितः॥42||

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत।
बिडालाख्योऽयुतानां च पंचाशद्भिरथायुतैः॥43||

युयुथे संयुगे तत्र रथानां परिवारितः।
अन्ये च तत्रायुतशो रथनागहयैर्वृताः॥44||

युयुधुः संयुगे देव्या सह तत्र महासुरा।
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा॥45||

हयानां च वृतो युद्धे तत्राभून्महिषासुरः।
तोमरैर्भिन्दिपालैश्च शक्तिभिः मुसलैस्तथा॥46||

युयुधुः संयुगे देव्या खड्गैः परशुपट्टिसैः।
केचिच्च चिक्षिपुः शक्तीः केचित् पाशां स्तथापरे॥47||

देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः।
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका॥48||

लीलयैव प्रचिच्चेद निजशस्त्रास्त्रवर्षिणी।
अनायस्तानना देवी स्तूयमान सुरर्षिभिः॥49||

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी।
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेशरी॥50||

चचारासुर सैन्येषु वनेष्विव हुताशनः ।
निःश्वासान् मुमुचेयांश्च युध्यमानारणेऽम्बिका॥51||

त एव सद्यसम्भूता गणाः शतसहश्रसः ।
युयुधस्ते परशुभिर् भिन्दिपालासिपट्टिसैः॥52||

नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः।
अवादयन्त पटहान् गणाः शंखां स्तथापरे॥53||

मृदङ्गांश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे।
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः॥54||

खड्गादिभिश्च शतशो निजघान महासुरान्।
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥55||

असुरान् भुविपाशेन बद्द्वाचान्यानकर्षयत्।
केचित् द्विधाकृता स्तीक्ष्णैः खड्ग पातैस्तथापरे॥56||

विपोथिता निपातेन गदया भुवि शेरते।
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः॥57||

केचिन्निपतिता भुमौ भिन्नाः शूलेन वक्षसि।
निरन्तराः शरौघेन कृताः केचिद्रणाजिरे॥58||

शल्यानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः।
केषांचिद्बाहवश्चिन्ना छिन्न ग्रीवा स्तथापरे॥59||

शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः।
विच्चिन्न जंङ्घा स्त्वपरे पेतुर्व्यां महासुराः॥60||

एकबाह्वाक्षिचरणाः केचिद्देव्या द्विधाकृताः।
छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः॥61||

कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः।
ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः॥62||

कबन्धाश्चिन्न शिरसः खड्ग शक्त्यृष्टिपाणयः।
तिष्ठ तिष्ठेति भाषन्तो देवी मन्ये महासुराः॥63||

पातितै रथनागाश्वैः असुरैश्च वसुन्धरा।
अगम्य साभवत्तत्र यत्राभूत् स महारणः॥64||

शोणितौघौ महानद्यः सद्यस्तत्र विसुस्रुवुः।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम्॥65||

क्षणेन तन्महा सैन्यं असुराणां तथाऽम्बिका।
निन्ये क्षयं यथा वह्निः तृणदारु महाचयम्॥66||

स च सिंहो महानादं उत्सृजन् धुतकेसरः।
शरीरेभ्योऽमरारीणां असूनिव विचिन्वति॥67||

देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः।
यथैषां तुष्टुवुर्देवाः पुषवृष्टिमुचो दिविः॥68||

इति श्री मार्कंडेय पुराणे सावर्णिके मन्वन्तरे।
देवी माहात्म्ये महिषासुर सैन्यवधो नाम
द्वितीयोऽध्यायः॥

updated 27/09/2021 12:30

 


 

 


||Devi Mahatmyam|| ||Durga Sapta Sati|| ||Chapter 1||